|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.101. अध्यायः 101
Mahabharata - Vana Parva - Chapter Topics
समुद्रान्तर्हितैर्दैत्यै रात्रौरात्रौ बहिर्निर्गत्याश्रमेषु ऋषिगणेषु निहतेषु देवगणैर्नारायणस्य शरणीकरणम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
लोमश उवाच। 3-101-0x(2040)(20059)
समुद्रं ते समाश्रित्य वरुणं निधमम्भसः।
कालेयाः संप्रवर्तन्त त्रैलोक्यस्य विनाशने ॥ 3-101-1(20060)
ते रात्रौ समभिक्रुद्धा भक्षयन्ति सदा मुनीन्।
आश्रमेषु च ये सन्ति पुण्येष्वायतनेषु च ॥ 3-101-2(20061)
वसिष्ठस्याश्रमे विप्रा भक्षितास्तैर्दुरात्मभिः।
अशीतिः शतमष्टौ च नव चान्ये तपस्विनः ॥ 3-101-3(20062)
च्यवनस्याश्रमं गत्वा पुण्यं द्विजनिषेवितम्।
फलमूलाशनानां हि मुनीनां भक्षितं शतम् ॥ 3-101-4(20063)
एवं रात्रौ स्म कुर्वन्ति विविशुश्चार्णवं दिवा।
`कालेयास्ते दुरात्मानो भक्षयन्तस्तपोधनान्' ॥ 3-101-5(20064)
भरद्वाजाश्रमे चैव नियता ब्र्हमचारिणः।
वाय्वाहाराम्बुभक्षाश्च विंशतिः संनिषूदिताः ॥ 3-101-6(20065)
एवं क्रमेण सर्वांस्तानाश्रमान्दानवास्तदा।
निशायां परिबाधन्ते समुद्राम्बुबलाश्रयात्।
कालोपसृष्टाः कालेया घ्नन्तो द्विजगणान्बहून् ॥ 3-101-7(20066)
न चैनानन्वबुध्यन्त मनुजा मनुजोत्तम।
एवं प्रवृत्तान्दैत्यांस्तांस्तापसेषु तपस्विषु ॥ 3-101-8(20067)
`क्षयाय जगतः क्रूराः पर्यटन्ति स्म मेदिनीम् ॥ 3-101-9(20068)
प्रभाते समदृश्यन्त नियताहारकर्शिताः।
महीतलस्था मुनयः शरीरैर्गतजीवितैः ॥ 3-101-10(20069)
क्षीणमांसैर्विरुधिरैर्विमज्जान्त्रैर्विसन्धिभिः।
आकीर्णैराचिता भूमिः शङ्खानामिव राशिभिः ॥ 3-101-11(20070)
लशैर्विप्रविद्धैश्च स्रुवैर्भग्नैस्तथैव च।
विकीर्णैरग्निहोत्रैश्च भूर्बभूव समावृता ॥ 3-101-12(20071)
निःस्वाध्यायवपट्कारं नष्टयज्ञोत्सवक्रियम्।
जगदासीन्निरुत्साहं कालेयभयपीडितम् ॥ 3-101-13(20072)
एवं संक्षीयमाणाश्च मानवा मनुजेश्वर।
आत्मत्राणपपा भीताः प्राद्रवन्त दिशो भयात् ॥ 3-101-14(20073)
केचिद्गुहाः प्रविविशुर्निर्भरांश्चापरे श्रिताः।
अपरे मरणोद्विग्ना भयात्प्राणान्समुत्सृजन् ॥ 3-101-15(20074)
केचिदत्रमहेष्वासाः शूराः परमहर्षिताः।
मार्गमाणआः परं यत्नं दानवानां प्रचक्रिरे ॥ 3-101-16(20075)
न चैतानधिजग्मुस्ते समुद्रं समुपाश्रितान्।
श्रमं जग्मुश्च परममाजग्मुः क्षयमेव च ॥ 3-101-17(20076)
जगत्युपशमं याते नष्टयज्ञोत्सवक्रिये।
आजग्मुः परमामार्तिं त्रिदशा मनुजेश्वर ॥ 3-101-18(20077)
समेत्य समहेन्द्राश्च भयान्मन्त्रं प्रचक्रिरे ॥ 3-101-19(20078)
शरण्यं शरणं देवं नारायणमजं विभुम्।
तेऽभिगम्य नमस्कृत्य वैकुण्ठमपराजितम्।
ततो देवाः समस्तास्ते तदोचुर्मधुसूदनम् ॥ 3-101-20(20079)
त्वंनः स्रष्टा च भर्ता च हर्ता च जगतः प्रभो।
त्वया सृष्टमिदं विश्वं यच्चेङ्गं यच्च नेङ्गति।
`त्वय्येव पुण्डरीकाक्ष पुनस्तत्प्रविलीयते' ॥ 3-101-21(20080)
त्वया भूमिः पुरा नष्टा समुद्रात्पुष्करेक्षण।
वाराहं वपुराश्रित्यजगदर्थे समुद्धृता ॥ 3-101-22(20081)
आदिदैत्यो महावीर्यो हिरण्यकशिपुः पुरा।
नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम ॥ 3-101-23(20082)
अवध्यः सर्वभूतानां बलिश्चापि महासुरः।
वामनं वपुराश्रित्य त्रैलोक्याद्धंशितस्त्वया ॥ 3-101-24(20083)
असुरश्च महेष्वासो जम्भ इत्यभिविश्रुतः।
यज्ञक्षोभकरः क्रूरस्त्वयैव विनिपातितः ॥ 3-101-25(20084)
एवमादीनि कर्माणि येषां संख्या न विद्यते।
अस्माकं भयभीतानां त्वं गतिर्मधुसूदन ॥ 3-101-26(20085)
तस्मात्त्वां देवदेवेश लोकार्थं ज्ञापयामहे।
रक्ष लोकांश्च देवांश्च शक्रं च महतो भयात्।
`शरणागतसंत्राणे त्वमेकोऽसि दृढव्रतः' ॥ 3-101-27(20086)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकाधिकशततमोऽध्यायः ॥ 101 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-101-1 ---निश्चित्यैवमसुरा वज्रसंहारदुःखिता इति क. पाठः. ---- कालायाः कश्यपभार्यायाः पुत्राः ॥ 1 ॥ 3-101-7 सृष्टाः मृत्युना ग्रस्ताः ॥ 3-101-16 दानवानां वधायेति शेषः ॥ 3-101-21 इङ्गति चलतीति इङ्गं पचाद्यच् जङ्गमम्। नेङ्गति स्थावरम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|